हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Ayodhya Kanda Sarga 85 – अयोध्याकाण्ड पञ्चाशीतितमः सर्गः (८५)
॥ गुहसमागमः ॥
एवमुक्तस्तु भरतर्निषादाधिपतिं गुहम् ।
प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ॥ १ ॥
ऊर्जितः खलु ते कामः कृतः मम गुरोस्सखे ।
यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि ॥ २ ॥
इत्युक्त्वा तु महातेजाः गुहं वचनमुत्तमम् ।
अब्रवीद्भरतः श्रीमान् निषादाधिपतिं पुनः ॥ ३ ॥
कतरेण गमिष्यामि भरद्वाजाश्रमं गुह ।
गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
अब्रवीत् प्राञ्जलिर्वाक्यं गुहो गहनगोचरः ॥ ५ ॥
दाशास्त्वाऽनुगमिष्यन्ति धन्विनः सुसमाहिताः ।
अहं त्वाऽनुगमिष्यामि राजपुत्र महायशः ॥ ६ ॥
कच्छिन्न दुष्टः व्रजसि रामस्याक्लिष्टकर्मणः ।
इयं ते महती सेना शङ्कां जनयतीव मे ॥ ७ ॥
तमेवमभिभाषन्तमाकाशैव निर्मलः ।
भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥ ८ ॥
माभूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि ।
राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः ॥ ९ ॥
तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् ।
बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥ १० ॥
स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् ।
पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥ ११ ॥
धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले ।
अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ १२ ॥
शाश्वती खलु ते कीर्तिः लोकाननुचरिष्यति ।
यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ १३ ॥
एवं सम्भाषमाणस्य गुहस्य भरतं तदा ।
बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत ॥ १४ ॥
सन्निवेश्य स तां सेनां गुहेन परितोषितः ।
शत्रुघ्नेन सह श्रीमान् शयनं पुनरागमत् ॥ १५ ॥
राम चिन्तामयः शोको भरतस्य महात्मनः ।
उपस्थितः ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ॥ १६ ॥
अन्तर्दाहेन दहनः सन्तापयति राघवम् ।
वन दाहाभिसन्तप्तं गूढोऽग्निरिव पादपम् ॥ १७ ॥
प्रसृतः सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम् ।
यथा सूर्यांशुसन्तप्तः हिमवान् प्रसृतः हिमम् ॥ १८ ॥
ध्याननिर्दरशैलेन विनिश्श्वसितधातुना ।
दैन्यपादपसङ्घेन शोकायासाधिशृङ्गिणा ॥ १९ ॥
प्रमोहानन्त सत्त्वेन सन्तापौषधिवेणुना ।
आक्रान्तर्दुःख शैलेन महता कैकयीसुतः ॥ २० ॥
विनिश्श्वसन्वै भृशदुर्मनास्ततः
प्रमूढसञ्ज्ञः परमापदं गतः ।
शमं न लेभे हृदयज्वरार्दितः
नरर्षभोऽयूथगतो यथर्षभः ॥ २१ ॥
गुहेन सार्धं भरतः समागतः
महानुभावः सजनः समाहितः ।
सुदुर्मनास्तं भरतं तदा पुनः
गुहः समाश्वासयदग्रजं प्रति ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥
www.sanatanadharm.com